(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।
॥ श्रीः ॥
3.183. अध्यायः 183
Mahabharata - Vana Parva - Chapter Topics
स्वप्रश्नस्योत्तरदानतुष्टेनाजगररूपिणा नहुषेण युधिष्ठिरंप्रति स्वस्याजगरभावसंभवहेतुकथनपूर्वकं भीमं विमुच्य पुनः स्वर्गं प्रति गमनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
युधिष्ठिर उवाच। 3-183-0x(2350)(22950)
भवानेतादृशो लोके वेदवेदाङ्गपारगः।
ब्रूहि किं कुर्वतः कर्म भवेद्गतिरनुत्तमा ॥ 1 ॥ 3-183-1(22951)
सर्प उवाच। 3-183-2x(2351)
पात्रे दत्त्वा प्रियाण्युक्त्वा सत्यमुक्त्वा च भारत।
अहिंसानिरतः स्वर्गं गच्छेदिति मतिर्मम ॥ 3-183-2(22952)
युधिष्ठिर उवाच। 3-183-3x(2352)
दानाद्वा सर्प सत्याद्वा किमतो गुरु दृश्यते।
अहिंसाप्रिययोश्चैव गुरुलाघवमुच्यताम् ॥ 3-183-3(22953)
सर्प उवाच। 3-183-4x(2353)
दानं च सत्यं तत्त्वं वा अहिंसा प्रियमेव च।
एषां कार्यगरीयस्त्वाद्दृश्यते गुरुलाघवम् ॥ 3-183-4(22954)
क्वचिद्दानप्रयोगाद्धि सत्यमेव विशिष्यते।
सत्यवाक्याच्च राजेनद्र क्वचिद्दानं विशिष्यते ॥ 3-183-5(22955)
एवमेव महेष्वास प्रियवाक्यान्महीपते।
अहिंसा दृश्यते गुर्वी ततश्च प्रियमिष्यते ॥ 3-183-6(22956)
एवमेतद्भवेद्राजन्कार्यापेक्षमनन्तरम्।
यदभिप्रेतमन्यत्ते ब्रूहि यावद्ब्रवीम्यहम् ॥ 3-183-7(22957)
युधिष्ठिर उवाच। 3-183-8x(2354)
कथं स्वर्गे गतिः सर्प कर्मणां च फलं ध्रुवम्।
अशरीरस्य दृश्येत प्रब्रूहि विषयांश्च मे ॥ 3-183-8(22958)
सर्प उवाच। 3-183-9x(2355)
तिस्रो वै गतयो राजन्परिदृष्टाः स्वकर्मभिः।
मानुषं स्वर्गवासश्च तिर्यग्योनिश्च तत्रिधा ॥ 3-183-9(22959)
तत्र वै मानुषाल्लोकाद्दानादिभिरनादिभिः।
अहिंसार्थसमायुक्तैः कारणैः स्वर्गमश्नुते ॥ 3-183-10(22960)
विपरीतैश्च राजेन्द्र कारणैर्मानुषो भवेत्।
तिर्यग्योनिस्तथा तात विशेषश्चात्र वक्ष्यते ॥ 3-183-11(22961)
क्रामक्रोधसमायुक्तो हिंसालोभसमनवितः।
मनुष्यत्वात्परिब्रष्टस्तिर्यग्योनौ प्रसूयते ॥ 3-183-12(22962)
तिर्यग्योन्याः पृथग्भावो मनुष्यार्थे विधीयते।
गवादिभ्यस्तथाऽश्वेभ्यो देवत्वमपि दृश्यते ॥ 3-183-13(22963)
सोयमेता गतीस्तात जन्तुश्चरति कार्यवान्।
निम्ने महति चात्मानमवस्थाप्य च वै नृप ॥ 3-183-14(22964)
जातो जातश्च बलवान्भुङ्क्ते नाम्नाऽथ देहवान्।
फलार्थस्तात निष्पृक्तः प्रजालक्षणभावनः ॥ 3-183-15(22965)
युधिष्ठिर उवाच। 3-183-16x(2356)
शब्दे स्पर्शे च रूपे च तथैव रसगन्धयोः।
तस्याधिष्ठानमव्यग्रो ब्रूहि सर्प यथातथम् ॥ 3-183-16(22966)
किं न गृह्णासि विषयान्युगपत्त्वं महामते।
एतावदुच्यतां चोक्तं सर्वं पन्नगसत्तम ॥ 3-183-17(22967)
सर्प उवाच। 3-183-18x(2357)
तदात्मद्रव्यमायुष्मन्देहसंश्रयणान्वितम्।
करणाधिष्ठितं भोगानुपभुङ्क्ते यथाविथि ॥ 3-183-18(22968)
ज्ञानं चैवात्र बुद्धिश्च कमश्च भरतर्षभ।
तस्य भोगाधिकरणे करणानि निबोध मे ॥ 3-183-19(22969)
मनसा तात पर्येति क्रमशो विषयानिमान्।
विषयायतनत्वेन भूतात्मा क्षेत्रविष्ठितः ॥ 3-183-20(22970)
तत्रचापि नरव्याघ्र मनो जन्तोर्विधीयते।
तस्माद्युगपदत्रास्य ग्रहणं नोपपद्यते ॥ 3-183-21(22971)
स आत्मा पुरुषव्याघ्र भ्रुवोरन्तरमाश्रितः।
बुद्धिं द्रव्येषु सृजति विविधेषु परावराम् ॥ 3-183-22(22972)
बुद्धेरुत्तरकालं च वेदना दृश्यते बुधैः।
एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः ॥ 3-183-23(22973)
युधिष्ठिर उवाच। 3-183-24x(2358)
मनसश्चापि बुद्धेश्च ब्रूहि मे लक्षणं परम्।
एतदध्यात्मविदुषां परं कार्यं विधीयते ॥ 3-183-24(22974)
सर्प उवाच। 3-183-25x(2359)
बुद्धिरात्मानुगाऽतीव उत्पातेन विधीयते।
तदाश्रिता हि सा ज्ञेया बुद्धिस्तस्यैषिणी भवेत् ॥ 3-183-25(22975)
बुद्धिरुत्पद्यते कार्यान्मनस्तूत्पन्नमेव हि।
बुद्धेर्गुणविधानेन मनस्तद्गुणवद्भवेत् ॥ 3-183-26(22976)
एतद्विशेषणं तात मनोबुद्ध्योर्मयेरितम्।
त्वमप्यत्राभिसंबुद्धः कथं वा मनय्से स्वयम् ॥ 3-183-27(22977)
युधिष्ठिर उवाच। 3-183-28x(2360)
अहो बुद्धिमतांश्रेष्ठ शुभा बुद्धिरियं तव।
विदितं वेदितव्यं ते कस्मान्नहुष पृच्छसि ॥ 3-183-28(22978)
सर्वज्ञं त्वां कथं मोह आविशत्स्वर्गवासिनम्।
एवमद्भुतकर्माणमिति मे संशयो महान् ॥ 3-183-29(22979)
सर्प उवाच। 3-183-30x(2361)
सुप्रज्ञमपि चेच्छूरमृद्धिर्मोहयते नरम्।
वर्तमानः सुखे सर्वो नावैतीति मतिर्मम ॥ 3-183-30(22980)
सोहमैश्वर्यमोहेन मदाविष्टो युधिष्ठिर।
पतितः प्रतिसंबुद्धस्त्वां तु संबोधयाम्यहम् ॥ 3-183-31(22981)
कृतंकार्यं महाराज त्वया मम परंतप।
क्षीणः शाप सुकृच्छ्रो मे त्वया संभाष्य साधुना ॥ 3-183-32(22982)
अहं हि दिवि दिव्येन विमानन चरन्पुरा।
अभिमानेन मत्तः सन्कंचिन्नान्यमचिन्तयम् ॥ 3-183-33(22983)
ब्रह्मर्षिदेघगन्धर्वयक्षराक्षसपन्नगाः।
वरं मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः ॥ 3-183-34(22984)
चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीपते।
तस्य तेजो हराम्याशु तद्धि दृष्टेर्बलं मम ॥ 3-183-35(22985)
ब्रह्मर्षीणां सरस्रं हि उवाह शिबिकां मम।
कस मामपनयो राजन्भ्रंशयामास वै श्रियः ॥ 3-183-36(22986)
तत्र ह्यगस्त्यः पादेन वहन्स्पृष्टो महामुनिः।
अगस्त्येन ततोस्म्युक्तो ध्वंस सर्पेति वैरुषा ॥ 3-183-37(22987)
ततस्तस्माद्विमानाग्र्यात्प्रच्युतश्च्युतलक्षणः।
प्रपतन्बुबुधेऽऽत्मानं व्यालीभूतमधोमुखम् ॥ 3-183-38(22988)
अयाचं तमहं विप्रं शापस्यान्तो भवेदिति।
प्रमादात्संप्रमूढस्य भगवन्क्षन्तुमर्हसि ॥ 3-183-39(22989)
ततः स मामुवाचेदं प्रपतन्तं कृपानवितः।
युधिष्ठिरो धर्मराजः शापात्त्वां मोक्षयिष्यति ॥ 3-183-40(22990)
अभिमानस्य वै तस्य बलस्य च नराधिप।
फले क्षीणे महाराज फलं पुण्यमवाप्स्यसि ॥ 3-183-41(22991)
ततो मे विस्मयो जातस्तद्दृष्ट्वा तपसो बलम्।
ब्रह्म च ब्राह्मणत्वं च येन त्वाऽहमचूचुदम् ॥ 3-183-42(22992)
सत्यं दमस्तपो योगमहिंसा ज्ञाननित्यता।
साधकानि सतां पुंसां न जातिर्नकुलं नृप ॥ 3-183-43(22993)
अरिष्ट कएष ते भ्राता मुक्तो बीमो महाभुज।
स्वस्ति तेऽस्तु महाराज गमिष्यामि दिवं पुनः ॥ 3-183-44(22994)
`स चायं पुरुषव्याघ्र कालः पुण्य उपागतः।
तदस्मात्कारणात्पार्थ कार्यं तन्मे महत्कृतम्' ॥ 3-183-45(22995)
वैशम्पायन उवाच। 3-183-46x(2362)
`ततस्तस्मिन्मुहूर्ते तु विमानं कामगामि वै।
अवपातेन महता तत्रावाप तदुत्तमम्' ॥ 3-183-46(22996)
इत्युक्त्वाऽऽजगरं देहं मुक्त्वा स नहुषो नृपः।
दिव्यं वपुः समास्थाय गतस्त्रिदिवमेव ह ॥ 3-183-47(22997)
युधिष्ठिरोपि धर्मात्मा भ्रात्रा भीमेन संगतः।
धौम्येन सहितः श्रीमानाश्रमं पुनरागमत् ॥ 3-183-48(22998)
ततो द्विजेभ्यः सर्वेभ्यः समेतेभ्यो यथातथम्।
कथयामास तत्सर्वं धर्मराजो युधिष्ठिरः ॥ 3-183-49(22999)
तच्छ्रुत्वा ते द्विजाः सर्वे भ्रातरश्चास्य ते त्रयः।
आसन्सुव्रीडिता राजन्द्रौपदी च यशस्विनी ॥ 3-183-50(23000)
ते तु सर्वेद्विजश्रेष्ठाः पाण्डवानां हितेप्सया।
मैवमित्यब्रुवन्भीमं गर्हयन्तोऽस् साहसम् ॥ 3-183-51(23001)
3-183-52(23002)
पाण्डवास्तु भयान्पुक्तं प्रेक्ष्य भीमं महाबलम्।
हर्षमाहारयांचक्रुर्विजह्रुश्च मुदा युताः ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-183-4 गुरुलाघवं गौरवं लाघवं चेत्यर्थः ॥
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.